नित्यं पिबाम: सुभाषितरसम्
हिंदी में अनुवाद
महोदय! हमारे विद्यालय की दीवार पर ‘अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः’ लिखा हुआ है। इसका क्या भाव है, कृपया समझाइए।
भो: सुशीले! इसका भावार्थ यह है कि इस जगत में कोई भी अयोग्य नहीं है। सभी योग्य हैं, परंतु प्रेरक और मार्गदर्शक का अभाव है।
मान्यवर! मैंने भी विद्यालय के परिसर में ऐसा ही एक श्लोक पढ़ा है।
हिंदी में अनुवाद
रमे! ये सुभाषित हैं। हमारे चिंतन के विकास के लिए ही ये सुभाषित विद्यालय के परिसर में स्थापित किए गए हैं।
वत्स! मानवों के विभिन्न मूल्यों के विकास के लिए श्रेष्ठ लोगों द्वारा कहे गए सुवचन ही सुभाषित हैं।
महोदय! सुभाषितों से क्या अभिप्राय है?
हिंदी में अनुवाद
श्रीमन्! सुभाषितों के पढ़ने से क्या लाभ है?
प्रिय सुरेश! सुभाषितों के पढ़ने से हमारा नैतिक और सामाजिक विकास होता है। हमें क्या करना चाहिए और क्या नहीं करना चाहिए, यह सुभाषित हमें समझाते हैं।
अहो, हम भी सुभाषितों को पढ़ना चाहते हैं। कृपया हमें पढ़ाइए।
उचित है, तो फिर हम सुभाषितों का रस पान करते हैं।
1.
वस्त्रेण वपुषा वाचा विद्यया विनयेन च ।
वकारै: पञ्चभिर्युक्तो नरो भवति पूजितः ॥ १ ॥
पदच्छेदः – वस्त्रेण वपुषा वाचा विद्यया विनयेन च वकारैः पञ्चभिः युक्तः नरः भवति पूजितः ।
अन्वयः – वस्त्रेण वपुषा वाचा विद्यया विनयेन च (इति एतैः) पञ्चभिः वकारैः युक्तः नरः पूजितः भवति।
भावार्थः – यः जनः समुचितानि वस्त्राणि धरति, शरीरेण स्वस्थः अस्ति, सदा सुमधुरं हितकरं च वचनं वदति, सर्वदा अध्ययने संलग्नः भवति, तथा च विनम्रतया च व्यवहरति तादृशः पञ्चभिः वकारैः – वस्त्रं वपुः वाक् विद्या विनयः – इत्येतैः युक्तः मनुष्यः लोके सम्मानं प्राप्नोति।
हिंदी में अनुवाद
भावार्थः: जो व्यक्ति उचित वस्त्र पहनता है, शरीर से स्वस्थ है, सदा मधुर और हितकारी वचन बोलता है, हमेशा अध्ययन में संलग्न रहता है, तथा विनम्रता से व्यवहार करता है, ऐसा व्यक्ति पाँच ‘व’ से युक्त – वस्त्र, वपु (शरीर), वाक्, विद्या, विनय – इनसे युक्त मनुष्य संसार में सम्मान प्राप्त करता है।
2.
षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥ २ ॥
पदच्छेदः – षड् दोषाः पुरुषेण इह हातव्याः भूतिम् इच्छता निद्रा तन्द्रा भयम् क्रोधः आलस्यम् दीर्घसूत्रता ।
अन्वयः – इह भूतिम् इच्छता पुरुषेण निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता (च इत्येते) षड् दोषाः हातव्याः ।
भावार्थः – अस्मासु निद्रादयः षड् दोषाः भवन्ति। एते अस्माकम् ऐश्वर्यस्य उन्नतेश्च अवरोधकाः भवन्ति। अतः यदि मानवः स्वजीवने धनिकः, विद्वान् वा भवितुम् इच्छति, ऐश्वर्यं वैभवं च प्राप्तुं वाञ्छति तर्हि सः अतिनिद्रां तन्द्रां, , भीतिं, क्रोधम्, आलस्यं, विलम्बेन कार्यकरणस्य प्रवृत्तिं च एतान् षड् दोषान् परित्यजेत् ।
हिंदी में अनुवाद
भावार्थ: हममें निद्रा आदि छह दोष होते हैं। ये हमारे ऐश्वर्य और उन्नति के अवरोधक हैं। अतः यदि मनुष्य अपने जीवन में धनवान या विद्वान बनना चाहता है, ऐश्वर्य और वैभव प्राप्त करना चाहता है, तो उसे अत्यधिक निद्रा, तन्द्रा (कर्महीनता), भय, क्रोध, आलस्य, और कार्य को विलंब से करने की प्रवृत्ति – इन छह दोषों को त्याग देना चाहिए।
3.
अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥ ३॥
पदच्छेदः – अद्भिः गात्राणि शुध्यन्ति मनः सत्येन शुध्यति विद्या-तपोभ्यां भूतात्मा बुद्धिः ज्ञानेन शुध्यति ।
अन्वयः – गात्राणि अद्भिः शुध्यन्ति । मनः सत्येन शुध्यति । भूतात्मा विद्यातपोभ्यां शुध्यति । बुद्धिः ज्ञानेन शुध्यति ।
भावार्थः – प्रतिदिनं स्नानेन मानवस्य शरीरं स्वच्छं भवति। सत्येन मनः पवित्रं भवति। सत्यकथनेन मनसि द्वन्द्वः भीतिः च न भवति। नित्यं
विद्याभ्यासेन परिश्रमेण च जीवस्य शुद्धिः भवति । ज्ञानेन च बुद्धिः निर्मला भवति। अतः मनुष्यः नित्यं स्नानं, सत्यकथनं, विद्याभ्यासं, परिश्रमं, ज्ञानार्जनं च कुर्यात्।
हिंदी में अनुवाद
भावार्थ: प्रतिदिन स्नान करने से मनुष्य का शरीर स्वच्छ होता है। सत्य बोलने से मन पवित्र होता है। सत्य बोलने से मन में द्वंद्व और भय नहीं रहता। नित्य विद्या के अभ्यास और परिश्रम से जीव की शुद्धि होती है। ज्ञान से बुद्धि निर्मल होती है। अतः मनुष्य को नित्य स्नान, सत्य बोलना, विद्या का अभ्यास, परिश्रम, और ज्ञानार्जन करना चाहिए।
4.
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं तद् भारतं नाम भारती यत्र सन्ततिः ॥ ४ ॥
पदच्छेद: – उत्तरं यत् समुद्रस्य हिमाद्रेः च एव दक्षिणं वर्षं तद् भारतं नाम भारती यत्र सन्ततिः।
अन्वय: – यत् समुद्रस्य उत्तरं हिमाद्रेः च दक्षिणं तद् एव भारतं नाम वर्षम्, यत्र भारती सन्ततिः (अस्ति)।
भावार्थ: – अस्मिऩ् सुशोभिते सुभाषितकारः भारतस्य भौगोलिकं स्वरूपं वर्णयति। हिन्दमहासागरस्य उत्तरभागे। हिमालयस्य च दक्षिणभागे यः भूभागः अस्ति, तस्य भूभागस्य नाम भारतवर्षम्। अत्रत्या: नागरिकाः भारतीयाः इति प्रसिद्धाः।
हिंदी में अनुवाद
भावार्थ: इस सुंदर सुभाषित में कवि भारत के भौगोलिक स्वरूप का वर्णन करता है। हिंद महासागर के उत्तरी भाग और हिमालय के दक्षिणी भाग में जो भूभाग है, उसका नाम भारतवर्ष है। यहाँ के नागरिक भारतीय कहलाते हैं।
5.
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥ ५ ॥
पदच्छेद: – जलबिन्दु-निपातेन क्रमशः पूर्यते घटः। सः हेतुः सर्वविद्यानां धर्मस्य च धनस्य च।
अन्वय: – घटः क्रमशः जलबिन्दु-निपातेन पूर्यते, सः हेतुः सर्वविद्यानां धर्मस्य च धनस्य च भवति।
भावार्थ: – यथा निरन्तरं जलस्य बिन्दूनां पतनेन रिक्तः अपि घटः पूर्णः भवति तथैव जीवने निरन्तरम् अभ्यासेन सामान्यः अपि मानवः सर्वप्रकारं ज्ञानं, धर्मं, धनं च लभते।
हिंदी में अनुवाद
भावार्थ: जैसे निरंतर जल की बूंदों के गिरने से खाली घड़ा भी भर जाता है, वैसे ही जीवन में निरंतर अभ्यास से साधारण मनुष्य भी हर प्रकार का ज्ञान, धर्म, और धन प्राप्त करता है।
6.
यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति।
तस्य दिवाकरकिरणैः नलिनीदलमिव विस्तारितता बुद्धिः ॥ ६ ॥
पदच्छेद: यः पठति लिखति पश्यति परिपृच्छति पण्डितान् उपाश्रयति तस्य दिवाकरकिरणैः नलिनीदलम् इव विस्तारितता बुद्धिः।
अन्वय: यः पठति लिखति पश्यति परिपृच्छति पण्डितान् उपाश्रयति च तस्य बुद्धिः दिवाकरकिरणैः नलिनीदलम् इव विस्तारितता भवति।
भावार्थ: – अस्माभिः आत्मविकासाय सर्वथा श्रेष्ठजनैः सह सङ्गतिः वासश्च कर्तव्यः।
यतो हि यः निरन्तरं पठति (अथवा स्वाध्यायं करोति), लिखति, पश्यति, विविधान् प्रश्नान् करोति (स्वस्य संशयं दूरं करोति), ज्ञानीयनानाम् आश्रयम् (समीपं) तिष्ठति, तस्य बुद्धिः तथैव वर्धते यथा सूर्यस्य किरणैः कमलं पूर्णतया विकसितं भवति।
हिंदी में अनुवाद
भावार्थ: हमें अपने आत्मविकास के लिए हर प्रकार से श्रेष्ठ लोगों के साथ संगति और निवास करना चाहिए। क्योंकि जो व्यक्ति निरंतर पढ़ता (या स्वाध्याय करता) है, लिखता है, देखता है, विभिन्न प्रश्न करता है (अपने संशय को दूर करता है), और ज्ञानी लोगों के समीप रहता है, उसकी बुद्धि उसी प्रकार बढ़ती है जैसे सूर्य की किरणों से कमल पूरी तरह खिल जाता है।
7.
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ॥ ७ ॥
पदच्छेद: प्रियवाक्य-प्रदानेन सर्वे तुष्यन्ति जन्तवः। तस्मात् तद् एव वक्तव्यम् वचने का दरिद्रता।
अन्वय: सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति, तस्मात् तदेव वक्तव्यम्, वचने का दरिद्रता।
भावार्थ: – मधुरभाषणेन सर्वे अपि प्राणिनः, अस्माकं सर्वाणि मित्राणि, माता, पिता, भ्राता इत्यादयः प्रसन्नाः भवन्ति। मधुरभाषणेन कापि हानिः नास्ति। अतः सर्वदा मधुरभाषणम् एव करणीयम्। मधुरभाषणे कदापि संकोचः न करणीयः।
हिंदी में अनुवाद
भावार्थ: मधुर भाषण से सभी प्राणी, हमारे सभी मित्र, माता, पिता, भाई आदि प्रसन्न होते हैं। मधुर भाषण से कोई हानि नहीं होती। अतः हमेशा मधुर भाषण ही करना चाहिए। मधुर भाषण में कभी संकोच नहीं करना चाहिए।
8.
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्धमसमो बन्धुः कृत्वा यं नावसीदति ॥ ८ ॥
पदच्छेद: आलस्यं हि मनुष्याणां शरीरस्थः महान् रिपुः। नास्ति उद्यमसमः बन्धुः। कृत्वा यं न अवसीदति।
अन्वय: आलस्यं हि मनुष्याणां शरीरस्थः महान् रिपुः (अस्ति)। उद्यमसमः बन्धुः नास्ति, (जनः) यं (उद्यमं) कृत्वा न अवसीदति।
भावार्थः – आलस्यम् एव मनुष्यस्य शरीरे विद्यमानः महान् शत्रुः अस्ति। तत् एव अस्माकं कार्यस्य सम्पादने अवरोधकं भवति । परिश्रमः एव अस्माकं वास्तविकं मित्रम् अस्ति । यः परिश्रमं करोति सः कदापि दुःखं न प्राप्नोति ।
हिंदी में अनुवाद
भावार्थ: आलस्य ही मनुष्य के शरीर में विद्यमान सबसे बड़ा शत्रु है। यह हमारे कार्यों को पूरा करने में बाधक बनता है। परिश्रम ही हमारा सच्चा मित्र है। जो परिश्रम करता है, वह कभी दुखी नहीं होता।
9.
अष्टादशपुराणेषु व्यासस्य वचनद्वयम्।
परोपकारः पुण्याय पापाय परपीड़नम् ॥ १
पदच्छेद: अष्टादश-पुराणेषु व्यासस्य वचन-द्वयं परोपकारः पुण्याय पापाय परपीड़नम्।
अन्वय: अष्टादशपुराणेषु व्यासस्य वचनद्वयं (अस्ति), परोपकारः पुण्याय परपीड़नं पापाय (च भवति)।
भावार्थ: – महर्षेः वेदव्यासस्य अष्टादश-पुराणानां सारः वचनद्वये अस्ति –
- परेषाम् उपकारणं पुण्यं भवति।
- परेषां पीडनं पापं भवति इति।
अतः अस्माभिः सर्वदा परोपकारः करनीयः।
अन्येषां पीडनं कदापि न करनीयम्।
हिंदी में अनुवाद
भावार्थ: महर्षि वेदव्यास के अठारह पुराणों का सार दो वचनों में है:
दूसरों का उपकार करना पुण्य है।
- दूसरों को पीड़ा देना पाप है।
अतः हमें हमेशा परोपकार करना चाहिए। दूसरों को पीड़ा कभी नहीं देनी चाहिए।
Good
VERY GOOD WEBSITE I LIKE THIS WEBSITE NO WEBSITE GIVE ME THIS WORK ONLY THIS WEBSITE GIVE METHAT WORK . I AM THANKFUL TO THIS WEBSITE .