Solutions For All Chapters Sanskrit Class 7
Question 1: एकपदेन उत्तरत-
(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?
(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?
(ग) रमाबाई केन सह विवाहम् अकरोत्?
(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?
(ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?
Answer:
(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां पंडिता रमाबाई विभूषिता।
(ख) रमा स्वमातुः संस्कृतशिक्षां प्राप्तवती।
(ग) रमाबाई विपिनबिहारीदासेन सह विवाहम् अकरोत्।
(घ) नारीणां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती।
(ङ) रमाबाई उच्चशिक्षार्थं इंग्लैण्डदेशं आगच्छत्।
Question 2: रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) रमायाः पिता समाजस्य प्रतारणाम् असहत।
(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।
(ग) रमाबाई मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(ङ) स्त्रियः शिक्षां लभन्ते स्म।
Answer:
(क) कस्या: पिता समाजस्य प्रतारणाम् असहत?
(ख) कस्य मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्?
(ग) रमाबाई कुत्र ‘शारदा-सदनम्’ अस्थापयत्?
(घ) 1922 तमे ख्रिष्टाब्दे कस्या: निधनम् अभवत्?
(ङ) कस्मै शिक्षां लभन्ते स्म?
Question 3: प्रश्नानामुत्तराणि लिखत-
(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?
(ख) निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?
(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?
(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?
Answer:
(क) रमाबाई स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलनं प्रारब्धवती।
(ख) निःसहायाः स्त्रियः आश्रमे मुद्रण-टंकण-काष्ठकलादीनाञ्च लभन्ते स्म।
(ग) समाजसेवायाः अतिरिक्तं लेखनक्षेत्रे अपि रमाबाई-महोदयायाः योगदानम् अस्ति।
(घ) ‘स्त्रीधर्मनीति’, ‘हाई कास्ट हिन्दू विमेन’ इति रचनाद्वयेन रमाबाई प्रशंसिता वर्तते।
Question 4: अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-
पदानि, मूलशब्दः, लिङ्गम्, विभक्तिः, वचनम्
Answer:
पदानि मूलशब्द: लिङ्गम् विभक्ति: वचनम्
यथा-वेदानाम् वेद पुँल्लिङ्गम् षष्ठी बहुवचनम्
पिता पितृ पुँल्लिङ्गम् प्रथमा एकवचनम्
शिक्षायै शिक्षा स्त्रीलिङ्गम् चतुर्थी एकवचनम्
कन्या: कन्या स्त्रीलिङ्गम् प्रथमा बहुवचनम्
नारीणाम् नारी स्त्रीलिङ्गम् षष्ठी बहुवचनम्
मनोरमया मनोरमा स्त्रीलिङ्गम् तृतीया एकवचनम्
Question 5: अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-
Answer:
धातु: लकार: पुरुष: वचनम्
यथा-आसीत् अस् लङ् प्रथमपुरुष: एकवचनम्
कुर्वन्ति ‘कृ’ लट् प्रथमपुरुष: बहुवचनम्
आगच्छत् ‘गम्’ लङ् प्रथमपुरुष: एकवचनम्
निवसन्ति ‘नि’ उपसर्ग ‘वस’ धातु लट् प्रथमपुरुष: बहुवचनम्
गमिष्यति ‘गम्’ लृट प्रथमपुरुष: एकवचनम्
अकरोत् ‘कृ‘ लङ् प्रथमपुरुष: एकवचनम्
Question 6: अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-
(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।
Answer:
(क) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
(ख) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।
(ग) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
(घ) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।
(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
(च) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
Leave a Reply