दीपकम् Class 7 Chapter 9 हिंदी में अनुवाद Deepakam Sanskrit NCERT
अन्नाद् भवन्ति भूतानि भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः च । भारतस्य विशिष्टं प्राचीनं ज्ञानं संस्कृताश्रितं वर्तते । संस्कृतिः अपि संस्कृताश्रिता भवति । अस्माकं प्राचीनाः ऋषिमुनयः, विद्वांसः, गणितज्ञाः खगोलविज्ञानिनः, भूगर्भशास्त्रज्ञाः, शिल्पकलाप्रवराः, सङ्गीत – नाट्य-कलाविशारदाः, तन्त्रज्ञाननिपुणाः, आयुर्वेदादिवैद्यशास्त्र धुरन्धराः, जल वायु-प्रकृति- वातावरणज्ञाः, वास्तु- स्थापत्यकलाप्रवराः, जीवशास्त्रस्य, रसायनशास्त्रस्य, लोहशास्त्रस्य च विज्ञातारः, राजनीतिज्ञाः, अर्थशास्त्रज्ञाः, मनोविज्ञानिनः, तर्कनिष्णातारः, पाकशास्त्रविशिष्टाः, सौन्दर्यशास्त्रज्ञा:, नीतिशास्त्रनिपुणाः, विधिविधानपारङ्गताः, धर्मशास्त्रप्रवीणाः, […]